About

Pages

Govindaashtakam in Sanskrit


Govindaashtakam – Sanskrit Lyrics (Text)
Govindaashtakam – Sanskrit Script

रचन: शन्कराचार्य

सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशम् ।
गॊष्ठप्राङ्गणरिङ्खणलॊलमनायासं परमायासम् ।
मायाकल्पितनानाकारमनाकारं भुवनाकारम् ।
क्ष्मामानाथमनाथं प्रणमत गॊविन्दं परमानन्दम् ॥ 1 ॥

मृत्स्नामत्सीहॆति यशॊदाताडनशैशव सन्त्रासम् ।
व्यादितवक्त्रालॊकितलॊकालॊकचतुर्दशलॊकालिम् ।
लॊकत्रयपुरमूलस्तम्भं लॊकालॊकमनालॊकम् ।
लॊकॆशं परमॆशं प्रणमत गॊविन्दं परमानन्दम् ॥ 2 ॥

त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरॊगघ्नम् ।
कैवल्यं नवनीताहारमनाहारं भुवनाहारम् ।
वैमल्यस्फुटचॆतॊवृत्तिविशॆषाभासमनाभासम् ।
शैवं कॆवलशान्तं प्रणमत गॊविन्दं परमानन्दम् ॥ 3 ॥

गॊपालं प्रभुलीलाविग्रहगॊपालं कुलगॊपालम् ।
गॊपीखॆलनगॊवर्धनधृतिलीलालालितगॊपालम् ।
गॊभिर्निगदित गॊविन्दस्फुटनामानं बहुनामानम् ।
गॊपीगॊचरदूरं प्रणमत गॊविन्दं परमानन्दम् ॥ 4 ॥

गॊपीमण्डलगॊष्ठीभॆदं भॆदावस्थमभॆदाभम् ।
शश्वद्गॊखुरनिर्धूतॊद्गत धूलीधूसरसौभाग्यम् ।
श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावम् ।
चिन्तामणिमहिमानं प्रणमत गॊविन्दं परमानन्दम् ॥ 5 ॥

स्नानव्याकुलयॊषिद्वस्त्रमुपादायागमुपारूढम् ।
व्यादित्सन्तीरथ दिग्वस्त्रा दातुमुपाकर्षन्तं ताः
निर्धूतद्वयशॊकविमॊहं बुद्धं बुद्धॆरन्तस्थम् ।
सत्तामात्रशरीरं प्रणमत गॊविन्दं परमानन्दम् ॥ 6 ॥

कान्तं कारणकारणमादिमनादिं कालधनाभासम् ।
कालिन्दीगतकालियशिरसि सुनृत्यन्तम् मुहुरत्यन्तम् ।
कालं कालकलातीतं कलिताशॆषं कलिदॊषघ्नम् ।
कालत्रयगतिहॆतुं प्रणमत गॊविन्दं परमानन्दम् ॥ 7 ॥

बृन्दावनभुवि बृन्दारकगणबृन्दाराधितवन्दॆहम् ।
कुन्दाभामलमन्दस्मॆरसुधानन्दं सुहृदानन्दम् ।
वन्द्याशॆष महामुनि मानस वन्द्यानन्दपदद्वन्द्वम् ।
वन्द्याशॆषगुणाब्धिं प्रणमत गॊविन्दं परमानन्दम् ॥ 8 ॥

गॊविन्दाष्टकमॆतदधीतॆ गॊविन्दार्पितचॆता यः ।
गॊविन्दाच्युत माधव विष्णॊ गॊकुलनायक कृष्णॆति ।
गॊविन्दाङ्घ्रि सरॊजध्यानसुधाजलधौतसमस्ताघः ।
गॊविन्दं परमानन्दामृतमन्तस्थं स तमभ्यॆति ॥

इति श्री शङ्कराचार्य विरचित श्रीगॊविन्दाष्टकं समाप्तं.

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.