About

Pages

Bala Mukundaashtakam in Sanskrit


Bala Mukundaashtakam– Sanskrit Lyrics (Text)

Bala Mukundaashtakam– Sanskrit Script

करारविन्दॆन पदारविन्दं मुखारविन्दॆ विनिवॆशयन्तम् ।
वटस्य पत्रस्य पुटॆ शयानं बालं मुकुन्दं मनसा स्मरामि ॥ 1 ॥

संहृत्य लॊकान्वटपत्रमध्यॆ शयानमाद्यन्तविहीनरूपम् ।
सर्वॆश्वरं सर्वहितावतारं बालं मुकुन्दं मनसा स्मरामि ॥ 2 ॥

इन्दीवरश्यामलकॊमलाङ्गम् इन्द्रादिदॆवार्चितपादपद्मम् ।
सन्तानकल्पद्रुममाश्रितानां बालं मुकुन्दं मनसा स्मरामि ॥ 3 ॥

लम्बालकं लम्बितहारयष्टिं शृङ्गारलीलाङ्कितदन्तपङ्क्तिम् ।
बिम्बाधरं चारुविशालनॆत्रं बालं मुकुन्दं मनसा स्मरामि ॥ 4 ॥

शिक्यॆ निधायाद्यपयॊदधीनि बहिर्गतायां व्रजनायिकायाम् ।
भुक्त्वा यथॆष्टं कपटॆन सुप्तं बालं मुकुन्दं मनसा स्मरामि ॥ 5 ॥

कलिन्दजान्तस्थितकालियस्य फणाग्ररङ्गॆनटनप्रियन्तम् ।
तत्पुच्छहस्तं शरदिन्दुवक्त्रं बालं मुकुन्दं मनसा स्मरामि ॥ 6 ॥

उलूखलॆ बद्धमुदारशौर्यम् उत्तुङ्गयुग्मार्जुन भङ्गलीलम् ।
उत्फुल्लपद्मायत चारुनॆत्रं बालं मुकुन्दं मनसा स्मरामि ॥ 7 ॥

आलॊक्य मातुर्मुखमादरॆण स्तन्यं पिबन्तं सरसीरुहाक्षम् ।
सच्चिन्मयं दॆवमनन्तरूपं बालं मुकुन्दं मनसा स्मरामि ॥ 8 ॥

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.